Kavachgayatribramha ji

श्री गायत्री कवचम् (श्रीमद्वसिष्ठसंहितायां अंतर्गत)

Shri Gayatri Kavach (From Shrimad Vasishtha Sanhita)

The Shri Gayatri Kavacha from the Vasishtha Samhita is a protective armour (kavacha) of the Goddess Gayatri, the Mother of the Vedas. Spoken by Brahma to the sage Yajnavalkya.

Mādhava Rāya Vaidya - saṁgṛhītaḥ (Mantra-mahārṇavaḥ)

याज्ञवल्क्य उवाच । स्वामिन् सर्वजगन्नाथ संशयोऽस्ति महान्मम । चतुःषष्टिकलानां च पातकानां च तद्वद ॥ १ ॥

मुच्यते केन पुण्येन ब्रह्मरूपं कथं भवेत् । देहश्च देवतारूपो मन्त्ररूपो विशेषतः । क्रमतः श्रोतुमिच्छामि कवचं विधिपूर्वकम् ॥ २ ॥

ब्रह्मोवाच । अस्य श्रीगायत्रीकवचस्य ब्रह्मविष्णुरुद्रा ऋषयः, ऋग्यजुःसामाथर्वाणि छन्दांसि, परब्रह्मस्वरूपिणी गायत्री देवता, भूर्बीजं, भुवः शक्तिः, स्वः कीलकं, श्रीगायत्रीप्रीत्यर्थे जपे विनियोगः ॥

ऋष्यादिन्यासः – ओं ब्रह्मविष्णुरुद्र ऋषिभ्यो नमः शिरसि । ऋग्यजुःसामाथर्वच्छन्दोभ्यो नमः मुखे । परब्रह्मस्वरूपिणी गायत्रीदेवतायै नमः हृदि । भूः बीजाय नमः गुह्ये । भुवः शक्तये नमः पादयोः । स्वः कीलकाय नमः नाभौ । विनियोगाय नमः सर्वाङ्गे ।

करन्यासः – ओं भूर्भुवः स्वः तत्सवितुरिति अङ्गुष्ठाभ्यां नमः । ओं भूर्भुवः स्वः वरेण्यमिति तर्जनीभ्यां नमः । ओं भूर्भुवः स्वः भर्गो देवस्येति मध्यमाभ्यां नमः । ओं भूर्भुवः स्वः धीमहीति अनामिकाभ्यां नमः । ओं भूर्भुवः स्वः धियो यो नः इति कनिष्ठिकाभ्यां नमः । ओं भूर्भुवः स्वः प्रचोदयादिति करतल करपृष्ठाभ्यां नमः ॥

अङ्गन्यासः – ओं भूर्भुवः स्वः तत्सवितुरिति हृदयाय नमः । ओं भूर्भुवः स्वः वरेण्यमिति शिरसे स्वाहा । ओं भूर्भुवः स्वः भर्गो देवस्येति शिखायै वषट् । ओं भूर्भुवः स्वः धीमहीति कवचाय हुम् । ओं भूर्भुवः स्वः धियो यो नः इति नेत्रत्रयाय वौषट् । ओं भूर्भुवः स्वः प्रचोदयादिति अस्त्राय फट् ॥

प्रार्थना – वर्णास्त्रां कुण्डिकाहस्तां शुद्धनिर्मलज्योतिषीम् । सर्वतत्त्वमयीं वन्दे गायत्रीं वेदमातरम् ॥

अथ ध्यानम् – मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै- -र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् । गायत्रीं वरदाभयाङ्कुशकशां शूलं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥

अथ कवचम् – ओं गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे । ब्रह्मविद्या च मे पश्चादुत्तरे मां सरस्वती ॥ १ ॥

पावकीं मे दिशं रक्षेत्पावकोज्ज्वलशालिनी । यातुधानीं दिशं रक्षेद्यातुधानगणार्दिनी ॥ २ ॥

पावमानीं दिशं रक्षेत्पवमानविलासिनी । दिशं रौद्रीमवतु मे रुद्राणी रुद्ररूपिणी ॥ ३ ॥

ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ।एवं दश दिशो रक्षेत् सर्वतो भुवनेश्वरी ॥ ४ ॥

ब्रह्मास्त्रस्मरणादेव वाचां सिद्धिः प्रजायते । ब्रह्मदण्डश्च मे पातु सर्वशस्त्रास्त्रभक्षकः ॥ ५ ॥

ब्रह्मशीर्षस्तथा पातु शत्रूणां वधकारकः । सप्त व्याहृतयः पान्तु सर्वदा बिन्दुसम्युतः ॥ ६ ॥

वेदमाता च मां पातु सरहस्या सदैवता । देवीसूक्तं सदा पातु सहस्राक्षरदेवता ॥ ७ ॥

चतुःषष्टिकला विद्या दिव्याद्या पातु देवता । बीजशक्तिश्च मे पातु पातु विक्रमदेवता ॥ ८ ॥

तत्पदं पातु मे पादौ जङ्घे मे सवितुः पदम् । वरेण्यं कटिदेशं तु नाभिं भर्गस्तथैव च ॥ ९ ॥

देवस्य मे तु हृदयं धीमहीति गलं तथा । धियो मे पातु जिह्वायां यः पदं पातु लोचने ॥ १० ॥

ललाटे नः पदं पातु मूर्धानं मे प्रचोदयात् । तद्वर्णः पातु मूर्धानं सकारः पातु फालकम् ॥ ११ ॥

चक्षुषी मे विकारस्तु श्रोत्रं रक्षेत्तु कारकः । नासापुटे वकारो मे रेकारस्तु कपोलयोः ॥ १२ ॥

णिकारस्त्वधरोष्ठे च यकारस्तूर्ध्व ओष्ठके । आस्यमध्ये भकारस्तु र्गोकारस्तु कपोलयोः ॥ १३ ॥

देकारः कण्ठदेशे च वकारः स्कन्धदेशयोः । स्यकारो दक्षिणं हस्तं धीकारो वामहस्तकम् ॥ १४ ॥

मकारो हृदयं रक्षेद्धिकारो जठरं तथा । धिकारो नाभिदेशं तु योकारस्तु कटिद्वयम् ॥ १५ ॥

गुह्यं रक्षतु योकार ऊरू मे नः पदाक्षरम् । प्रकारो जानुनी रक्षेच्चोकारो जङ्घदेशयोः ॥ १६ ॥

दकारो गुल्फदेशं तु यात्कारः पादयुग्मकम् । जातवेदेति गायत्री त्र्यम्बकेति दशाक्षरा ॥ १७ ॥

सर्वतः सर्वदा पातु आपोज्योतीति षोडशी । इदं तु कवचं दिव्यं बाधाशतविनाशकम् ॥ १८ ॥

चतुःषष्टिकलाविद्यासकलैश्वर्यसिद्धिदम् । जपारम्भे च हृदयं जपान्ते कवचं पठेत् ॥ १९ ॥

स्त्रीगोब्राह्मणमित्रादिद्रोहाद्यखिलपातकैः ।मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति ॥ २० ॥

पुष्पाञ्जलिं च गायत्र्या मूलेनैव पठेत्सकृत् । शतसाहस्रवर्षाणां पूजायाः फलमाप्नुयात् ॥ २१ ॥

भूर्जपत्रे लिखित्वैतत् स्वकण्ठे धारयेद्यदि । शिखायां दक्षिणे बाहौ कण्ठे वा धारयेद्बुधः ॥ २२ ॥

त्रैलोक्यं क्षोभयेत्सर्वं त्रैलोक्यं दहति क्षणात् । पुत्रवान् धनवान् श्रीमान् नानाविद्यानिधिर्भवेत् ॥ २३ ॥

ब्रह्मास्त्रादीनि सर्वाणि तदङ्गस्पर्शनात्ततः । भवन्ति तस्य तुल्यानि किमन्यत्कथयामि ते ॥ २४ ॥

अभिमन्त्रितगायत्रीकवचं मानसं पठेत् । तज्जलं पिबतो नित्यं पुरश्चर्याफलं भवेत् ॥ २५ ॥

लघुसामान्यकं मन्त्रं महामन्त्रं तथैव च । यो वेत्ति धारणां युञ्जन् जीवन्मुक्तः स उच्यते ॥ २६ ॥

सप्तव्याहृतयो विप्र सप्तावस्थाः प्रकीर्तिताः । सप्तजीवशता नित्यं व्याहृती अग्निरूपिणी ॥२७॥

प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु । सर्वेषामेव पापानां सङ्करे समुपस्थिते ॥ २८ ॥

शतं सहस्रमभ्यर्च्य गायत्री पावनं महत् । दशशतमष्टोत्तरशतं गायत्री पावनं महत् ॥ २९ ॥

भक्तिमान्यो भवेद्विप्रः सन्ध्याकर्म समाचरेत् ।काले काले तु कर्तव्यं सिद्धिर्भवति नान्यथा ॥३०॥

प्रणवं पूर्वमुद्धृत्य भूर्भुवःस्वस्तथैव च । तुर्यं सहैव गायत्रीजप एवमुदाहृतम् ॥ ३१ ॥

तुरीयपादमुत्सृज्य गायत्रीं च जपेद्द्विजः । स मूढो नरकं याति कालसूत्रमधोगतिः ॥ ३२ ॥

मन्त्रादौ जननं प्रोक्तं मन्त्रान्ते मृतसूतकम् । उभयोर्दोषनिर्मुक्तं गायत्री सफला भवेत् ॥ ३३ ॥

मन्त्रादौ पाशबीजं च मन्त्रान्ते कुशबीजकम् । मन्त्रमध्ये तु या माया गायत्री सफला भवेत् ॥३४॥

वाचिकं त्वेकमेव स्यादुपांशु शतमुच्यते । सहस्रं मानसं प्रोक्तं त्रिविधं जपलक्षणम् ॥ ३५ ॥

अक्षमालां च मुद्रां च गुरोरपि न दर्शयेत् । जपं चाक्षस्वरूपेणानामिकामध्यपर्वणि ॥ ३६ ॥

अनामा मध्यया हीना कनिष्ठादिक्रमेण तु । तर्जनीमूलपर्यन्तं गायत्रीजपलक्षणम् ॥ ३७ ॥

पर्वभिस्तु जपेदेवमन्यत्र नियमः स्मृतः । गायत्र्या वेदमूलत्वाद्वेदः पर्वसु गीयते ॥ ३८ ॥

दशभिर्जन्मजनितं शतेनैव पुरा कृतम् । त्रियुगं तु सहस्राणि गायत्री हन्ति किल्बिषम् ॥ ३९ ॥

प्रातः कालेषु कर्तव्यं सिद्धिं विप्रो य इच्छति । नादालये समाधिश्च सन्ध्यायां समुपासते ॥ ४० ॥

अङ्गुल्यग्रेण यज्जप्तं यज्जप्तं मेरुलङ्घने।असङ्ख्यया च यज्जप्तं तज्जप्तं निष्फलं भवेत्॥४१॥

विना वस्त्रं प्रकुर्वीत गायत्री निष्फला भवेत् । वस्त्रपुच्छं न जानाति वृथा तस्य परिश्रमः ॥ ४२ ॥

गायत्रीं तु परित्यज्य अन्यमन्त्रमुपासते । सिद्धान्नं च परित्यज्य भिक्षामटति दुर्मतिः ॥ ४३ ॥

ऋषिश्छन्दो देवताख्या बीजशक्तिश्च कीलकम् । विनियोगं न जानाति गायत्री निष्फला भवेत् ॥४४॥

वर्णमुद्रा ध्यानपदमावाहनविसर्जनम् । दीपं चक्रं न जानाति गायत्री निष्फला भवेत् ॥ ४५ ॥

शक्तिन्यासस्तथा स्थानं मन्त्रसम्बोधनं परम्। त्रिविधं यो न जानाति गायत्री निष्फला भवेत् ॥४६॥

पञ्चोपचारकांश्चैव होमद्रव्यं तथैव च । पञ्चाङ्गं च विना नित्यं गायत्री निष्फला भवेत् ॥ ४७ ॥

मन्त्रसिद्धिर्भवेज्जातु विश्वामित्रेण भाषितम् ।व्यासो वाचस्पतिं जीवस्तुता देवी तपः स्मृतौ ॥४८॥

देवी जप्ता सहस्रं सा ह्युपपातकनाशिनी । लक्षजाप्ये तथा तच्च महापातकनाशिनी ॥ ४९ ॥

कोटिजाप्येन राजेन्द्र यदिच्छति तदाप्नुयात् । न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः । शिष्येभ्यो भक्तियुक्तेभ्यो ह्यन्यथा मृत्युमाप्नुयात् ॥ ५० ॥

इति श्रीमद्वसिष्ठसंहितायां श्री गायत्री कवचम् ।

Additional Information अतिरिक्त जानकारी

Significanceमहत्व

This Gayatri Kavach, preserved in the Shrimad Vasishtha Samhita and gathered in the Mantra-maharnava, is imparted by Brahma to the sage Yajnavalkya as an armour of the Veda-mother Gayatri, the very embodiment of Parabrahman. It weaves the syllables of the Gayatri mantra together with the goddess in her many forms.

The kavach first invokes Gayatri, Savitri, Brahmavidya and Saraswati to guard the ten directions, then places each syllable of the sacred mantra upon a limb of the body. Its purpose is complete protection and the fruit of Gayatri upasana, culminating in the attainment of Brahman.

Benefits of Recitingपाठ के लाभ
  • Shields the reciter on every side through forms of the goddess.
  • Consecrates the body, syllable by syllable, with the power of the Gayatri mantra.
  • Bestows purity of speech, mastery of learning and the merit of Gayatri worship.
  • Frees one from manifold sins and dispels obstacles and afflictions.
  • Turns the aspirant toward Parabrahman, the goal of all sandhya and japa.
Sources & Referencesस्रोत एवं संदर्भ

Source: Mādhava Rāya Vaidya - saṁgṛhītaḥ (Mantra-mahārṇavaḥ)

Reference: https://books.google.co.in/books?id=WohSAAAAcAAJ&pg=PA280&lp...