Kavachbramha ji

श्री ब्रह्म कवचं (महानिर्वाणतन्त्रान्तर्गता)

Shri Brahma Kavach (From Mahanirvan Tantra)

The Shri Brahma Kavacham from the Mahanirvana Tantra is a protective hymn (kavach) addressed to the formless, attributeless Supreme Brahman, the indwelling Self of all beings.

Mahanirvana Tantra (महानिर्वाण तंत्र)

विनियोग- ॐ अस्य श्री परब्रह्ममंत्र, सदाशिव ऋषिः, अनुष्टुप् छंदः, निर्गुण सर्वान्तर्यामी परम्ब्रह्मदेवता, चतुर्वर्गफल सिद्ध्यर्थे विनियोगः।

ऋष्यादिन्यास- सदाशिवाय ऋषये नमः शिरसि । अनुष्टुप् छंदसे नमः मुखे। सर्वान्तर्यामी निर्गुण परमब्रह्मणे देवतायै नमः हृदि । धर्मार्थकाममोक्षावाप्तये विनियोगः सर्वांगे ।

करन्यास- ॐ अंगुष्ठाभ्यां नमः । सत् तर्जनीभ्यां स्वाहा। चित् मध्यमाभ्यां वषट्। एकं अनामिकाभ्यां हुं । ब्रह्म कनिष्ठिकाभ्यां वौषट्। ॐ सच्चिदेकं ब्रह्म करतलकरपृष्ठाभ्यां फट्।

हृदयादिन्यास- ॐ हृदयाय नमः । सत् शिर से स्वाहा । चित् शिखायै वषट्। एकं कवचाय हुं । ब्रह्म नेत्रत्रयाय वौषट् । ॐ सच्चिदेकं ब्रह्म अस्त्राय फट् ।

ध्यानम्- हृदयकमलमध्ये निर्विशेषं निरीहं, हरिहर विधिवेद्यं योगिभिर्ध्यानगम्यम् । जननमरणभीति भ्रंशि सच्चित्स्वरूपं, सकलभुवनबीजं ब्रह्म चैतन्यमीडे।।

मंत्र- ॐ सच्चिदेकं ब्रह्म ।

परब्रह्म गायत्री - ॐ परमेश्वर्याय विद्महे, परतत्वाय धीमहि, तन्नो ब्रह्म प्रचोदयात्॥

ॐ श्रीब्रह्मणे नमः ।

कवचं शृणु चार्वङ्गि जगन्मङ्गलनामकम् । पठनाद्धारणाद्यस्य ब्रह्मज्ञो जायते ध्रुवम् ॥ १॥

परमात्मा शिरः पातु हृदयं परमेश्वरः । कण्ठं पातु जगत्त्राता वदनं सर्वदृग्विभुः ॥ २॥

करौ मे पातु विश्वात्मा पादौ रक्षतु चिन्मयः । सर्वाङ्गं सर्वदा पातु परब्रह्म सनातनम् ॥ ३॥

श्रीजगन्मङ्गलस्यास्य कवचस्य सदाशिवः । ऋषिश्छन्दोऽनुष्टुबिति परब्रह्म च देवता ॥ ४॥

चतुर्वर्गफलावाप्त्यै विनियोगः प्रकीर्तितः । यः पठेद्ब्रह्मकवचं ऋषिन्यासपुरःसरम् ॥ ५॥

स ब्रह्मज्ञानमासाद्य साक्षाद्ब्रह्ममयो भवेत् । भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारायेद्यदि ॥ ६॥

कण्ठे वा दक्षिणे बाहौ सर्वसिद्धीश्वरो भवेत् । इत्येतत् परमं ब्रह्मकवचं ते प्रकाशितम् ॥ ७॥

दद्यात् प्रियाय शिष्याय गुरुभक्ताय धीमते । पठित्वा स्तोत्रकवचं प्रणमेत्साधकाग्रणीः ॥ ८॥

ॐ नमस्ते परमं ब्रह्म नमस्ते परमात्मने । निर्गुणाय नमस्तुभ्यं सद्रूपाय नमो नमः ॥ ९॥

ॐ श्रीब्रह्मणे नमः । ॐ श्रीब्रह्मणे नमः । ॐ श्रीब्रह्मणे नमः । ॥

इति श्रीब्रह्मकवचं सम्पूर्णम् ॥ ॥

शुभमस्तु ॥

Additional Information अतिरिक्त जानकारी

Sources & Referencesस्रोत एवं संदर्भ

Source: Mahanirvana Tantra (महानिर्वाण तंत्र)

Reference: https://sanskritdocuments.org/doc_deities_misc/brahmakavacha...